Posts

1.1

भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम्। तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥ १॥ भीष्म-द्रोण-तटाम् = यस्याः तटौ भीष्मः द्रोणः च ताम् नदीम् = the river whose banks are Bhishma and Drona जयद्रथजलाम् = यस्याः जलं जयद्रथः ताम् नदीम् = The river whose waters are Jayadratha गान्धार-राज-ह्रदाम् = यस्याः ह्रदः(जलाशयः) गान्धारस्य राजा शकुनिः ताम् नदीम् = the river whose ditch is Shakuni, king of Gandhar कर्ण-द्रौणि-कृप-ऊर्मि-नक्र-मकरां = यस्याः ऊर्मी कर्णः, नक्रः द्रोणपुत्रः अश्वत्थामा, कृपाचार्यः मकरः ताम् नदीम् = the river whose waves are Karna, shark is Ashwatthaama, the alligator is Kripacharya दुर्योधनस्रोतसम् = यस्याः स्रोतसः  दुर्योधनः ताम् नदीम् = the river whose source is Duryodhana तीर्णः = तरणं कृतवान् = crossed शत्रुनदीम् = शत्रु-रुपिणी नदीम् = the river in the form of enemies शराससिकताम् = यस्याः सिकता शरासाः(बाणाः) ताम् नदीम् = the river whose sand are arrows येन प्लवेन =...